अश्वत्थ: सर्ववृक्षाणां देवर्षीणां च नारद:।गन्धर्वाणां चित्ररथ: सिद्धानां कपिलो मुनि:॥ अश्वत्थ:, सर्ववृक्षाणाम्, देवर्षीणाम्, च, नारद:,गन्धर्वाणाम्, चित्ररथ:, सिद्धानाम्, कपिल:, मुनि:॥ …
BG 10.25 महर्षीणां भृगुरहं
महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम्।यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालय:॥ महर्षीणाम्, भृगु:, अहम्, गिराम्, अस्मि, एकम्, अक्षरम्,यज्ञानाम्, जपयज्ञ:, अस्मि, स्थावराणाम्, हिमालय:॥ २५॥ अहम् …
BG 10.24 पुरोधसां च मुख्यं मां
पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम्।सेनानीनामहं स्कन्द: सरसामस्मि सागर:॥ पुरोधसाम्, च, मुख्यम्, माम्, विद्धि, पार्थ, बृहस्पतिम्,सेनानीनाम्, अहम्, स्कन्द:, सरसाम्, अस्मि, सागर:॥ …
BG 10.23 रुद्राणां शङ्करश्चास्मि
रुद्राणां शङ्करश्चास्मि वित्तेशो यक्षरक्षसाम्।वसूनां पावकश्चास्मि मेरु: शिखरिणामहम्॥ रुद्राणाम्, शङ्कर:, च, अस्मि, वित्तेश:, यक्षरक्षसाम्,वसूनाम्, पावक:, च, अस्मि, मेरु:, शिखरिणाम्, अहम्॥ …
BG 10.22 वेदानां सामवेदोऽस्मि
वेदानां सामवेदोऽस्मि देवानामस्मि वासव:।इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना॥ वेदानाम्, सामवेद:, अस्मि, देवानाम्, अस्मि, वासव:,इन्द्रियाणाम्, मन:, च, अस्मि, भूतानाम्, अस्मि, चेतना॥ …
BG 10.21 आदित्यानामहं विष्णुर्
आदित्यानामहं विष्णुर्-ज्योतिषां रविरंशुमान्।मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी॥ आदित्यानाम्, अहम्, विष्णु:, ज्योतिषाम्, रवि:, अंशुमान्,मरीचि:, मरुताम्, अस्मि, नक्षत्राणाम्, अहम्, शशी॥ …