षोडशकलः सोम्य पुरुषः पञ्चदशाहानि माशीः काममपः पिबापोमयः प्राणो नपिबतो विच्छेत्स्यत इति ॥ ६.७.१ ॥ ṣoḍaśakalaḥ somya puruṣaḥ pañcadaśāhāni māśīḥ kāmamapaḥ pibāpomayaḥ prāṇo napibato vicchetsyata iti …
Chandogya Upanishad 7.19.1
यदा वै श्रद्दधात्यथ मनुते नाश्रद्दधन्मनुते श्रद्दधदेव मनुते श्रद्धा त्वेव विजिज्ञासितव्येति श्रद्धां भगवो विजिज्ञास इति ॥ ७.१९.१ ॥॥ इति एकोनविंशतितमः खण्डः ॥ yadā vai śraddadhātyatha manute …
Chandogya Upanishad 1.6.8
तस्यर्क्च साम च गेष्णौ तस्मादुद्गीथस्तस्मात्त्वेवोद्गातैतस्य हि गाता स एष ये चामुष्मात्पराञ्चो लोकास्तेषां चेष्टे देवकामानां चेत्यधिदैवतम् ॥ १.६.८ ॥॥ इति षष्ठः खण्डः ॥ tasyarkca sāma ca geṣṇau …
Chandogya Upanishad 1.6.7
तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी तस्योदिति नाम स एष सर्वेभ्यः पाप्मभ्य उदित उदेति ह वै सर्वेभ्यः पाप्मभ्यो य एवं वेद ॥ १.६.७ ॥ tasya yathā kapyāsaṃ puṇḍarīkamevamakṣiṇī tasyoditi nāma sa eṣa …
Chandogya Upanishad 1.6.6
अथ यदेवैतदादित्यस्य शुक्लं भाः सैव साथ यन्नीलं परः कृष्णं तदमस्तत्सामाथ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यश्मश्रुर्हिरण्यकेश आप्रणस्वात्सर्व एव सुवर्णः ॥ १.६.६ ॥ atha …
Chandogya Upanishad 1.6.5
अथ यदेतदादित्यस्य शुक्लं भाः सैवर्गथ यन्नीलं परः कृष्णं तत्साम तदेतदेतस्यामृच्यध्यूढं साम तस्मादृच्यध्यूढं साम गीयते ॥ १.६.५ ॥ atha yadetadādityasya śuklaṃ bhāḥ saivargatha yannīlaṃ paraḥ kṛṣṇaṃ …