आदित्य इति होवाच सर्वाणि ह वा इमानि भूतान्यादित्यमुच्चैः सन्तं गायन्ति सैषा देवतोद्गीथमन्वायत्ता तां चेदविद्वानुदगास्यो मूर्धा ते व्यपतिष्यत्तथोक्तस्य मयेति ॥ १.११.७ ॥ āditya iti hovāca sarvāṇi ha …
Chandogya Upanishad 1.11.6
अथ हैनमुद्गातोपससादोद्गातर्या देवतोद्गीथमन्वायत्ता तां चेदविद्वानुद्गास्यसि मूर्धा ते विपतिष्यतीति मा भगवानवोचत्कतमा सा देवतेति ॥ १.११.६ ॥ atha hainamudgātopasasādodgātaryā devatodgīthamanvāyattā …
Chandogya Upanishad 1.11.5
प्राण इति होवाच सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्ति प्राणमभ्युज्जिहते सैषा देवता प्रस्तावमन्वायत्ता तां चेदविद्वान्प्रास्तोष्यो मूर्धा ते व्यपतिष्यत्तथोक्तस्य मयेति ॥ १.११.५ ॥ prāṇa iti …
Chandogya Upanishad 1.11.4
अथ हैनं प्रस्तोतोपससाद प्रस्तोतर्या देवता प्रस्तावमन्वायत्ता तां चेदविद्वान्प्रस्तोष्यसि मूर्धा ते विपतिष्यतीति मा भगवानवोचत्कतमा सा देवतेति ॥ १.११.४ ॥ atha hainaṃ prastotopasasāda prastotaryā …
Chandogya Upanishad 1.11.3
भगवांस्त्वेव मे सर्वैरार्त्विज्यैरिति तथेत्यथ तर्ह्येत एव समतिसृष्टाः स्तुवतां यावत्त्वेभ्यो धनं दद्यास्तावन्मम दद्या इति तथेति ह यजमान उवाच ॥ १.११.३ ॥ bhagavāṃstveva me sarvairārtvijyairiti …
Chandogya Upanishad 1.11.2
स होवाच भगवन्तं वा अहमेभिः सर्वैरार्त्विज्यैः पर्यैषिषं भगवतो वा अहमवित्त्यान्यानवृषि ॥ १.११.२ ॥ sa hovāca bhagavantaṃ vā ahamebhiḥ sarvairārtvijyaiḥ paryaiṣiṣaṃ bhagavato vā ahamavittyānyānavṛṣi …