एवमेषां लोकानामासां देवतानामस्यास्त्रय्या विद्याया वीर्येण यज्ञस्य विरिष्टं संदधाति भेषजकृतो ह वा एष यज्ञो यत्रैवंविद्ब्रह्मा भवति ॥ ४.१७.८ ॥ evameṣāṃ lokānāmāsāṃ devatānāmasyāstrayyā vidyāyā …
Chandogya Upanishad 4.17.7
तद्यथा लवणेन सुवर्णं संदध्यात्सुवर्णेन रजतं रजतेन त्रपु त्रपुणा सीसं सीसेन लोहं लोहेन दारु दारु चर्मणा ॥ ४.१७.७ ॥ tadyathā lavaṇena suvarṇaṃ saṃdadhyātsuvarṇena rajataṃ rajatena trapu trapuṇā sīsaṃ …
Chandogya Upanishad 4.17.6
अथ यदि सामतो रिष्येत्स्वः स्वाहेत्याहवनीये जुहुयात्साम्नामेव तद्रसेन साम्नां वीर्येण साम्नां यज्ञस्य विरिष्टं संदधाति ॥ ४.१७.६ ॥ atha yadi sāmato riṣyetsvaḥ svāhetyāhavanīye juhuyātsāmnāmeva …
Chandogya Upanishad 4.17.5
स यदि यजुष्टो रिष्येद्भुवः स्वाहेति दक्षिणाग्नौ जुहुयाद्यजुषामेव तद्रसेन यजुषां वीर्येण यजुषां यज्ञस्य विरिष्टं संदधाति ॥ ४.१७.५ ॥ sa yadi yajuṣṭo riṣyedbhuvaḥ svāheti dakṣiṇāgnau juhuyādyajuṣāmeva …
Chandogya Upanishad 4.17.4
तद्यदृक्तो रिष्येद्भूः स्वाहेति गार्हपत्ये जुहुयादृचामेव तद्रसेनर्चां वीर्येणर्चां यज्ञस्य विरिष्टं संदधाति ॥ ४.१७.४ ॥ tadyadṛkto riṣyedbhūḥ svāheti gārhapatye juhuyādṛcāmeva tadrasenarcāṃ …
Chandogya Upanishad 4.17.3
स एतां त्रयीं विद्यामभ्यतपत्तस्यास्तप्यमानाया रसान्प्रावृहद्भूरित्यृग्भ्यो भुवरिति यजुर्भ्यः स्वरिति सामभ्यः ॥ ४.१७.३ ॥ sa etāṃ trayīṃ vidyāmabhyatapattasyāstapyamānāyā rasānprāvṛhadbhūrityṛgbhyo …