तदाहुः, यदयमेक इवैव पवते, अथ कथमध्यर्ध इति; यदस्मिन्निदं सर्वमध्यार्ध्नोत्, तेनाध्यर्ध इति; कतम एको देव इति; प्राण इति स ब्रह्म त्यदित्याचक्शते ॥ ९ ॥ tadāhuḥ, yadayameka ivaiva pavate, atha …
Brihadaranyaka Upanishad 3.9.8
कतमे ते त्रयो देवा इति; इम एव त्रयो लोकाः, एषु हीमे सर्वे देवा इति; कतमौ तौ द्वौ देवाविति; अन्नं चैव प्राणश्चेति; कतमो'ध्यर्ध इति; यो'यं पवत इति ॥ ८ ॥ katame te trayo devā iti; ima eva trayo lokāḥ, …
Brihadaranyaka Upanishad 3.9.7
कतमे षडित्य्; अग्निश्च पृथिवी च वायुश्चान्तरिक्शं चादित्यश्च द्यौश्चैते षड्, एते हीदं सर्वं षडिति ॥ ७ ॥ katame ṣaḍity; agniśca pṛthivī ca vāyuścāntarikśaṃ cādityaśca dyauścaite ṣaḍ, ete hīdaṃ …
Brihadaranyaka Upanishad 3.9.6
कतम इन्द्रः, कतमः प्रजापतिरिति; स्तनयित्नुरेवेन्द्रः, यज्ञः प्रजापतिरिति; कतमः स्तनयित्नुरिति; अशनिरिति; कतमो यज्ञ इति; पशव इति ॥ ६ ॥ katama indraḥ, katamaḥ prajāpatiriti; stanayitnurevendraḥ, …
Brihadaranyaka Upanishad 3.9.5
कतम आदित्या इति । द्वादश वै मासाः संवत्सरस्य, एत आदित्याः, एते हीदं सर्वमाददाना यन्ति; ते यदिदं सर्वमाददाना यन्ति तस्मादादित्या इति ॥ ५ ॥ katama ādityā iti । dvādaśa vai māsāḥ saṃvatsarasya, eta …
Brihadaranyaka Upanishad 3.9.4
कतमे रुद्रा इति; दशेमे पुरुषे प्राणा आत्मैकादशः; ते यदास्माच्छरीरान्मर्त्यादुत्क्रामन्त्यथ रोदयन्ति; तद्यद्रोदयन्ति तस्माद्रुद्रा इति ॥ ४ ॥ katame rudrā iti; daśeme puruṣe prāṇā ātmaikādaśaḥ; te …