अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् ।विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति ॥ २-१७॥ अविनाशि, तु, तत्, विद्धि, येन्, सर्वम्, इदम्, ततम्,विनाशम्, अव्ययस्य, अस्य, न, कश्चित्, कर्तुम्, अर्हति॥ …
BG 2.16 नासतो विद्यते भावो
नासतो विद्यते भावो नाभावो विद्यते सतः ।उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥16॥ न, असत:, विद्यते, भाव:, न, अभाव:, विद्यते, सत:,उभयो:, अपि, दृष्ट:, अन्त:, तु, अनयो:, तत्त्वदर्शिभि:॥ …
BG 2.14 मात्रास्पर्शास्तु कौन्तेय
मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः ।आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत ॥ २-१४॥ मात्रास्पर्शा:, तु, कौन्तेय, शीतोष्णसुखदु:खदा:,आगमापायिन:, अनित्या:, तान्, तितिक्षस्व, भारत॥ …
BG 2.69 या निशा सर्वभूतानां
या निशा सर्वभूतानां तस्यां जागर्ति संयमी ।यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥69॥ या, निशा, सर्वभूतानाम्, तस्याम्, जागर्ति, संयमी,यस्याम्, जाग्रति, भूतानि, सा, निशा, पश्यत:, मुने:॥ …
BG 2.61 तानि सर्वाणि संयम्य
तानि सर्वाणि संयम्य युक्त आसीत मत्परः ।वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥61॥ तानि, सर्वाणि, संयम्य, युक्त:, आसीत, मत्पर:,वशे, हि, यस्य, इन्द्रियाणि, तस्य, प्रज्ञा, प्रतिष्ठिता॥ …
BG 2.68 तस्माद्यस्य महाबाहो
तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः ।इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥68॥ तस्मात्, यस्य, महाबाहो, निगृहीतानि, सर्वश:,इन्द्रियाणि, इन्द्रियार्थेभ्य:, तस्य, प्रज्ञा, …